Dwadash Jyotirling Stuti – द्वादश ज्योतिर्लिंग स्तुति

Dwadasa Jyothirling means 12 Jyothirlinga of Shiv and the stuti is a devotional hymn that name the locations of temple and form of the Shiv worshiped there.

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् ।
उज्जयिन्यां महाकालमोङ्कारममलेश्वरम् ॥ १ ॥

परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम् ।
सेतुबन्धे तु रामेशं नागेशं दारुकावने ॥ २ ॥

वाराणस्यां तु विश्वेशं त्र्यम्बकं गौतमीतटे ।
हिमालये तु केदारं घुष्मेशं च शिवालये ॥ ३ ॥

एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः ।
सप्तजन्मकृतं पापं स्मरणेन विनश्यति ॥ ४ ॥

इति द्वादश ज्योतिर्लिङ्गानि ।

Leave a Reply

Your email address will not be published. Required fields are marked *




You May Also Like